|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.57. अध्यायः 057
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
दृतराष्ट्र उवाच। 8-57-0x(4979)(57846)
पाण्ड्ये हते किमकरोदर्जुनो जयतांवरः।
एकवीरेण कर्णेन द्राविते च युधिष्ठिरे॥ 8-57-1(57847)
समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः।
सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना॥ 8-57-2(57848)
तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनञ्जयात्।
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय॥ 8-57-3(57849)
सञ्जय उवाच। 8-57-4x(4980)
हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम्।
हतं पश्य स्वराजानमपयातांश्च पाण्डवान्॥ 8-57-4(57850)
कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम्।
असौ भीमो महेष्वासः प्रतिवृत्तो रणं प्रति॥ 8-57-5(57851)
त इमे नानुवर्तन्ते धृष्टद्युम्नपुरोगमाः।
पाञ्चालाः सृञ्जयाश्चैव पाण्डवानां चमूमुखम्॥ 8-57-6(57852)
`निवृत्तैश्च पुनः पार्थैर्भग्नं शत्रुबलं महत्'।
कौरवान्द्रवतो ह्येष कर्णो वारयते भृशम्॥ 8-57-7(57853)
अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः।
असौ गच्छति कौन्तेय द्रौणिः शस्त्रभृतां वरः॥ 8-57-8(57854)
तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः।
अश्वत्थाम्ना हताः सङ्ख्ये सर्वे कौन्तेय सृञ्जयाः॥ 8-57-9(57855)
रथाश्वनरनागानां कृतं च कदनं महत्।
इत्येतत्सर्वमाचष्ट वासुदेवः किरीटिने॥ 8-57-10(57856)
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातृणां व्यसनं महत्।
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः॥ 8-57-11(57857)
ततः प्रायाद्धृषीकेशो रथेनाप्रतिमो युधि।
`ततो रेणुः समभवत्पुनस्तत्र महारणे॥ 8-57-12(57858)
ततो राजन्महानासीत्सङ्गामो रोमहर्षणः।
सिंहनादरवाश्चात्र प्रादुरासन्समागमे।
उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम्॥ 8-57-13(57859)
ततः हुनः समाजग्मुरभीताः कुरुसृञ्जयाः।
युधिषरमुखाः पार्था वैकर्तनमुखा वयम्॥ 8-57-14(57860)
ततः प्रववृते यूद्धं घोररूपं विशाम्पते।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनम्॥ 8-57-15(57861)
तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले रोमहर्षणे।
संशप्तकेषु वीरेषु किञ्चिच्छेषेषु भारत॥ 8-57-16(57862)
धृष्टद्युम्नो महाराज सहितः सर्वराजभिः।
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः॥ 8-57-17(57863)
आगच्छमानांस्तान्दृष्ट्वा सङ्ग्रमे विजयैषिणः।
दधारैको रणे कार्णो जलौघानिव पर्वतः॥ 8-57-18(57864)
समासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः।
यथाऽचलं समासाद्य वार्योधाः सर्वतोदिशम्॥ 8-57-19(57865)
तयोरासीन्महाराज सङ्ग्रामो घोरदर्शनः।
प्रवृद्धयोर्महारङ्गे बलिनोर्विजिगीषतोः॥ 8-57-20(57866)
धृष्टद्युम्नस्तु राधेयं शरेणानतपर्वणा।
छादयामास सङ्क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत्॥ 8-57-21(57867)
विजयं तु धनुः श्रेष्ठं विधृन्वानो महारथः।
पार्षतस्य धनुश्छित्त्वा शरांश्चाशीविषोपमान्॥ 8-57-22(57868)
ववर्ष शरवर्षाणि तोयवर्षानिवाम्बुदः।
छादयामास सङ्क्रुद्धः पार्षतं नवभिः शरैः॥ 8-57-23(57869)
ते हेमविकृतं वर्म भित्त्वा तस्य महात्मनः।
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ॥ 8-57-24(57870)
तदपास्य धनुश्छिन्नं धृष्टद्युम्नः प्रतापवान्।
ततोऽन्यद्धनुरादाय सारवद्भारसाधनम्।
कर्णं विव्याध सप्तत्या शरैः सन्नतपर्वभिः॥ 8-57-25(57871)
तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम्।
द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः॥ 8-57-26(57872)
पुनरन्यं महाराज शरं कनकभूषणम्।
प्रेषयामास समरे मृत्युदण्डमिवापरम्॥ 8-57-27(57873)
तमापतन्तं सहसा घोररूपं विशाम्पते।
चिच्छेद शतधा राजन्पार्षतः कृतहस्तवत्॥ 8-57-28(57874)
दृष्टवान्पतितं भूमौ शरं कर्णो विशाम्पते॥ 8-57-29(57875)
पार्षतः शरवर्षेण समन्तात्पर्यवारयत्।
विव्याध चैनं त्वरितो नाराचैः सप्तभिस्तदा॥ 8-57-30(57876)
तं प्रत्यविध्यद्दशभिः शरैर्हेमविभूषितैः।
तयोर्युद्धं समभवद्दृष्टिश्रोत्रमनोहरम्॥ 8-57-31(57877)
आसीद्धोरं च चित्रं च प्रेक्षणीयं च सर्वशः॥ 8-57-32(57878)
सर्वेषां तत्र भूतानां रोमहर्षो व्यजायत।
दृष्ट्वा तत्समरे कर्म कर्णपार्षतयोर्नृप॥ 8-57-33(57879)
एतस्मिन्नन्तरे द्रौणिरभ्ययात्तं महारथम्।
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम्॥ 8-57-34(57880)
स दृष्ट्वा समरे यान्तमभीतं च महारथम्।
अभ्यभाषत सङ्क्रुद्धः पार्षतं शत्रुतापनम्॥ 8-57-35(57881)
रथं रथेन सम्पीड्य पार्षतस्य तु ब्राह्मणः॥ 8-57-36(57882)
तिष्ठतिष्ठेति ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे।
इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः।
छादयामास समरे यतमानो महारथः॥ 8-57-37(57883)
यत्नतः परया शक्त्या धृष्टद्युम्नं महारथम्।
योधयामास समरे क्रुद्धरूपो विशाम्पते॥ 8-57-38(57884)
तयोस्तु सन्निपाते हि घोररूपो विशाम्पते॥ 8-57-39(57885)
यथा हि समरे द्रौणिः पार्षतं दृश्यत मारिष।
नातिहृष्टमना ह्यासीन्मन्वानो मृत्युमात्मनः॥ 8-57-40(57886)
स ज्ञात्वा पितुरत्यन्तरैरिणं तु महाहवे।
आत्मानं समरे ज्ञात्वाऽशस्त्रवध्यं महाबलः।
जवेनाभिययौ द्रौणिं कालः कालक्षये यथा॥ 8-57-41(57887)
द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नमवस्थितम्।
क्रोधेन निःश्वसन्वीरः पार्षदं समभिद्रवत्॥ 8-57-42(57888)
तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम्।
प्रगृह्य महती चापे शरासनसमन्विते॥ 8-57-43(57889)
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान्।
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशाम्पते॥ 8-57-44(57890)
पाञ्चालापशदाद्य त्वां प्रेषयामि यमक्षयम्।
पापं हि यत्त्वया कर्म कृतं तातं घ्नता रणे॥ 8-57-45(57891)
अद्य त्वं प्राप्स्यसे तद्वै यथा ह्यकुशलस्तथा।
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे।
नापक्रामसि वा मोहात्सत्यमेतद्ब्रवीमि ते॥ ॥ 8-57-46(57892)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तपञ्चाशोऽध्यायः॥ 57 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-57-2 अनुज्ञातः त्वं अजय्यो भविष्यसीत्यनुगृहीतः॥ 8-57-57 सप्तपञ्चाशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|